योग्य : शिष्य :
एकस्मिन् आश्रमे एकः आचार्य : वसति स्म । तेन सह शिष्याः अपि वसन्ति स्म। सर्वे शिष्याः गुरोः आदरं कुर्वन्ति स्म। ते शिष्या परिश्रमिण: आज्ञाकारिण: विनयशीला: च आसन् । एकदा आचार्य अचिन्तयत् सर्वेषु शिष्येषुकः योग्य ? इति चिन्तयित्वा सः सर्वान् शिष्यान् आहूय सर्वेभ्यः एकम् एकम् कपोतम् अयच्छत्। सः तान् अवदत्- " स्वं स्वं कपोतं कुत्रचित् एतादृशे स्थाने मुञ्चन्तु यत्र कोऽपि भवतः न पश्यतु ।"
अनुवाद :- एक आश्रम में एक गुरु रहते थे। उनके साथ शिष्य भी रहते थे। सभी शिष्य गुरु का आदर करते थे। वे शिष्य परिश्रमी, आज्ञाकारी और विनयशील थे। एक बार गुरु ने सोचा कौन मेरा योग्य शिष्य है? ऐसा सोचकर उसने सभी शिष्यों को बुलाकर सभी को एक-एक कबूतर दिया। वह उनसे बोले - अपने-अपने कबूतर को इस तरह के स्थान पर छोड़े जहाँ कोई भी तुम्हें न देखे।
सर्वे शिष्याः कपोतान् गृहीत्वा आश्रमात् बहि: अगच्छन्। किञ्चित् कालस्य पश्चात् सर्वे शिष्याः कपोतान् मोचयित्वा आश्रमम् आगच्छन् । परन्तु एक: शिष्य: स्वं कपोतं न अमुञ्चत्। गुरु: तम् अपृच्छत् - "वत्स ! त्वं कपोतं किमर्थं न अमुञ्यः ?"
अनुवाद :- सभी शिष्य कबूतरों को लेकर आश्रम से बाहर गए। कुछ समय बाद सभी शिष्य कबूतरों को छोड़कर आश्रम में वापस आए। लेकिन एक शिष्य ने अपने कबूतर को नहीं छोड़ा। गुरु ने उससे पूछा- वत्स! तुमने कबूतर को कौन नहीं छोड़ा।
शिष्यः अवदत्- "गुरुवर! अहं तादृशं स्थानं न अपश्यम् यत्र कोऽपि मां न पश्यति ।" गुरुः पुनः अवदत्- "कस्मिंश्चित् एकान्ते स्थाने गत्वा एतं कपोत मुञ्च।"
शिष्यः अवदत्- "गुरुवर! एकान्ते अपि अहं स्वकार्य पश्यामि। सूर्य: चन्द्र: वृक्षाः पादपाः इत्यादयः अपि सर्वे मां पश्यन्ति। कुत्रापि एकान्तं स्थानं न अस्ति।"
एतत् श्रुत्वा गुरुः अतीव प्रसन्नः अभवत्। सः तं शिष्यम् अकथयत्- भवान् एव मम योग्यः शिष्यः अस्ति।
अनुवाद :- शिष्य बोला - गुरु जी! मुझे ऐसा स्थान नहीं मिला जहाँ कोई भी मुझे देखता न हो।
गुरु ने फिर से कहा - किसी एकांत स्थान पर जाकर इसे छोड़ो।
शिष्य ने कहा - हे गुरु! एकांत में भी मैं अपने कार्य को देखूँगा। सूर्य, चंद्रमा, पेड़-पौधे इत्यादि भी सभी मुझे देखते हैं। कहीं भी एकांत स्थान नहीं है।
ऐसा सुनकर गुरु बहुत अधिक प्रसन्न हुए। वह उस शिष्य से बोले- तुम ही मेरे योग्य शिष्य हो।
अभ्यासः
1. प्रश्नान् पठित्वा वदन्तु लिखन्तु च 'आम् ' अथवा 'न'-
(i) किम् आचार्य: आश्रमे वसति स्म ?
उत्तर - आम्
(ii) किम् आचार्य: शिष्येभ्य : काकम् अयच्छत्?
उत्तर - न
(iii) किं सर्व शिष्यः स्वं स्वं कपोतम् अमुञ्चन् ?
उत्तर - न
(iv) किं शिष्या: आश्रमात् बहिः अगच्छन् ?
उत्तर - आम्
(v) किं सूर्य: चन्द्रः वृक्षाः पादपाः इत्यादय सर्व अस्मान् पश्यन्ति ?
उत्तर - आम्
2. उचित पदं चित्वा रिक्तस्थानानि पुरयन्तु -
( कपोतन् एकान्तं अमुञ्चन् शिष्येभ्यः कपोतं अकथयत्)
(i) एकदा आचार्य: सर्वेभ्यः शिष्येभ्यः एकम् एकम् कपोतम् अयच्छत्।
(ii) आचार्य: तान् अकथयत् यत् स्वं स्वं कपोतं एकान्ते स्थाने मुञ्चन्तु।
(iii) सर्वे शिष्याः कपोतान् गृहीत्वा आश्रमात् बहि: अगच्छन्।
(iv) ते सर्वे कपोतन् अमुञ्चन्।
(v) एक: शिष्य: स्वं कपोतं न अमुञ्चत्।
(vi) सः कुत्रापि एकान्तं स्थानं न अपश्यत्।
3. विपरीतार्थकं पदं चित्वा लिखन्तु-
( आगत्य अन्तः पूर्वम् अयोग्याः एतादृश्यम् मोचयित्वा )
(i) योग्याः - अयोग्याः
(ii) तादृशम् - एतादृश्यम्
(iii) गृहीत्वा - मोचयित्वा
(iv) बहिः - अन्तः
(v) पश्चात् - पूर्वम्
(vi) गत्वा - आगत्य
4. एतेषाम् प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
(i) आचार्य: कान् आहूतवान् ?
उत्तर- शिष्यान्
(ii) आचार्य: शिष्येभ्यः किम् अयच्छत् ?
उत्तर- कपोतम्
(iii) सर्वे शिष्याः कपोतान् गृहीत्वा कुत्र अगच्छन् ?
उत्तर- आश्रमात् बहि:
(iv) एक: शिष्य: कं न अमुञ्चत्?
उत्तर- कपोतम्
(v) कः अतीव प्रसन्नः अभवत् ?
उत्तर- गुरुः
5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु -
(i) आचार्य: कान् अकथयत् ?
उत्तर- आचार्य: सर्वान् शिष्यान् अकथयत्।
(ii) आचार्य: किम् अकथयत् ?
उत्तर- आचार्य: अकथयत् - स्वं स्वं कपोतं कुत्रचित् एतादृशे स्थाने मुञ्चन्तु यत्र कोऽपि भवतः न पश्यतु।
(iii) कः स्वकपोतं न अमुञ्चत् ?
उत्तर- एक: शिष्य: स्वं कपोतं न अमुञ्चत्।
(iv) अस्माकं कार्याणि के पश्यन्ति ?
उत्तर- अस्माकं कार्याणि सूर्य: चन्द्र: वृक्षाः पादपाः इत्यादयः पश्यन्ति।
(v) शिष्याः कपोतान् मोचवित्या कुत्र आगच्छन् ?
उत्तर- शिष्याः कपोतान् मोचवित्या आश्रमम् आगच्छन्।
6. स्थूलपदम् आधृत्य प्रश्ननिर्माणं कुर्वन्तु-
i) आचार्य: स्वशिष्यान् परीक्षते स्म।
उत्तर- कः स्वशिष्यान् परीक्षते स्म ?
(ii) आचार्य: शिष्येभ्यः कपोतम् अयच्छत्।
उत्तर- आचार्य: केश्यः कपोतम् अयच्छत्?
(iii) शिष्याः कपोतम् गृहीत्वा अगच्छन् ।
उत्तर- के कपोतम् गृहीत्वा अगच्छन् ?
(iv) शिष्याः कपोतान् अमुञ्चन्।
उत्तर- शिष्याः कान् अमुञ्चन् ?
(v) गुरु: अतीव प्रसन्नः अभवत् ।
उत्तर- कः अतीव प्रसन्नः अभवत् ?
(vi) गुरु: शिष्येषु स्नियति ।
उत्तर- गुरु: केषु स्नियति ?
7. अधोलिखितानि वाक्यानि कथाक्रमानुसारेण लिखन्तु-
(i) एकदा आचार्यः शिष्येभ्यः कपोतान् दत्वा एकान्ते स्थाने मोचयितुम् अकथयत्।
(ii) एकः शिष्यः स्वं कपोत न अमुञ्चत् ।
(iii) एक आचार्य आश्रमे वसति स्म।
(iv) स: अकथयत् अहं कुत्रापि एकान्त स्थान न अपश्यम् ।
(v) तेन सह शिष्याः अपि वसन्ति स्म ।
(vi) सर्वे शिष्या कपोतान् अमुज्यन्।
उत्तरम्-
(i) एक आचार्य आश्रमे वसति स्म।
(ii) तेन सह शिष्याः अपि वसन्ति स्म।
(iii) एकदा आचार्यः शिष्येभ्यः कपोतान् दत्वा एकान्ते स्थाने मोचयितुम् अकथयत्।
(iv) सर्वे शिष्या कपोतान् अमुज्यन्।
(v) एकः शिष्यः स्वं कपोत न अमुञ्चत्।
(vi) स: अकथयत् अहं कुत्रापि एकान्त स्थान न अपश्यम्।
No comments:
Post a Comment
If you have any doubt let me know.