धन्या मातुः महिमा अष्टम पाठ :
एक बालकः आसीत् । तस्य नाम आलः आसीत् । एकदा सः मातरम् अपृच्छत् - 'मातः ! मूर्खः कः भवति ? ' माता अवदत्- ' यः बुद्धिहीनः भवति , सः मूर्खः । सः बालकः दुःखी अभवत् अकथयत् च- ' तदा अहं बुद्धिहीनः अस्मि विद्यालये सर्वे माम् मूर्खः ' इति कथयन्ति अ अहं विद्यालय न गमिष्यामि । ' माता अवदत् - ' पुत्र ! निराश मा भव । अह त्वा पाठयिष्यामि । त्वं मूर्खः न असि । ' माता बालक प्रतिदिनम् अपाठयत् । सः बालकः अपि परिश्रमेण अपठत् मातुः सेवा च अकरोत् एकस्मिन् दिवसे सः महान् वैज्ञानिकः अभवत् । तस्य नाम थामस अल्वा एडीसन आसीत् । विद्युद् - दीपक : ग्रामोफ़ोन - यन्त्रम् , चलचित्रयन्त्रम् आदीनि वस्तूनि अस्य एव महावैज्ञानिकस्य आविष्काराः सन्ति । एषः महान् वैज्ञानिकः अकथयत्- ' मम माता एव मम मार्गदर्शिका शिक्षिका च अस्ति । सत्यम् एव अस्ति - माता एव अस्माकं परमो गुरुः मार्गदर्शिका च भवति ।
धन्या मातुः महिमा कथ्यते अपि- माता स्वर्गात् उच्चतरा भवति ।
अनुवाद :एक बालक था। उसका नाम ऑल था। एक बार उसने अपनी माँ से पूछा- मूर्ख कौन होते हैं ? माता ने कहा- जिनकी बुद्धि कम होती है, वे मूर्ख होते हैं। उस बालक ने दुखी हुआ और उसने कहा -तब तो मैं बुद्धिहीन हूँ मेरे विद्यालय में सब मुझे मूर्ख कहते हैं, अब मैं विद्यालय नहीं जाऊँगा। माता ने कहा- पुत्र! निराश मत हो। मैं तुम्हें पढ़ाऊँगी। तुम मूर्ख नहीं हो। माता बालक को प्रतिदिन पढ़ाती थी। वह बालक बड़े परिश्रम के साथ पढ़ता था और अपनी माता की सेवा भी करता था। एक दिन वह बालक महान वैज्ञानिक बना। उसका नाम 'थॉमस आल्वा एडिसन' था। बल्ब, ग्रामोफ़ोन, सिनेमा आदि वस्तुएँ उस महान वैज्ञानिक के अविष्कार थे। उस महान वैज्ञानिक ने कहा - 'मेरी माता मेरी मार्गदर्शिका और मेरी शिक्षिका थी।'
यह सत्य ही है- माता हमारी परम गुरु और मार्गदर्शिका होती हैं। कथन है - धन्य हे! माता की महिमा, माता का स्थान स्वर्ग से भी ऊँचा होता है।
अभ्यासः
1. एतानि वाक्यानि 'शुद्धानि' 'अशुद्धानि' वा इति लिखतु-
i. बालक : आल : महान् वैज्ञानिकः अभवत् । - शुद्धानि
ii आलः मूर्खः न आसीत् । - शुद्धानि
iii आलः परिश्रमी आसीत् । - शुद्धानि
iv बालकस्य माता तं ' मूर्खः ' इति अकथयत् । - अशुद्धानि
v बालकस्य माता तं प्रतिदिनम् अपाठयत् । - शुद्धानि
2.. मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयन्त -
{ }
i. एक : बालक : आसीत् ।
ii तस्य नाम आलः आसीत्
iii .स: मूर्ख: न आसीत् ।
iv. तस्य माता तम् अपाठयत् ।
v. धन्या मातुः महिमा ।
3. विपरीतार्थक शब्दान् चित्वा लिखन्तु -
i. मूर्खः - विद्वान्
ii. दुःखी - सुखी
iii. सत्यम् - असत्यम्
iv. दिवसे - रात्रौ
v. बुद्धिहीनः - बुद्धिमान्
4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
i. बालकस्य नाम किम् आसीत् ?
उत्तर- आलः
ii. मूर्खः कः भवति ?
उत्तर- बुद्धिहीनः
iii. बालक का प्रतिदिनम् अपाठयत् ?
उत्तर- माता
iv. किं बालकः महान् वैज्ञानिकः अभवत् ?
उत्तर- आम्
v. महावैज्ञानिकस्य मार्गदर्शिका का आसीत् ?
उत्तर- माता
5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-
i. बालक: आल मातरम् किम् अपृच्छत् ?
उत्तर- बालक: आल: मातरम् अपृच्छत्- मातः ! मूर्खः कः भवति ? '
ii. कः कथयति- 'अहं विद्यालय न गमिष्यामि।'
उत्तर- आल: कथयति- 'अहं विद्यालय न गमिष्यामि।'
iii. बालकस्य पूर्ण नाम किम् आसीत् ?
उत्तर - बालकस्य पूर्ण नाम थामस अल्वा एडीसन आसीत् ।
iv. किं बालकस्य माता तं प्रतिदिनम् अपाठयत् ?
उत्तर- आम्! बालकस्य माता तं प्रतिदिनम् अपाठयत्।
v. बालकः केषां वस्तूनाम् आविष्कारान् अकरोत् ?
उत्तर- बालकः विद्युद्-दीपक:, ग्रामोफ़ोन यन्त्रम्, चलचित्रयन्त्रम् आदीनि वस्तूनाम् आविष्कारान् अकरोत् ।6 स्थूलपदम् आधृत्य प्रश्ननिर्माणं कुर्वन्तु-
i. माता बालकं प्रतिदिनम् अपाठ्यत्।
उत्तर- माता कं प्रतिदिनम् अपाठ्यत्।
ii. बालक: मातरम् अपृच्छत् ?
उत्तर- बालक: केषां अपृच्छत् ?
iii. बालक: परिश्रमी आसीत् ।
उत्तर- कः परिश्रमी आसीत् ?
iv. माता अस्माकं मार्गदर्शिका भवति ।
उत्तर- माता केषां मार्गदर्शिका भवति ?
v. माता स्वर्गात् उच्चतरा भवति ।
उत्तर- माता कस्मात् उच्चतरा भवति ?
7. एतानि वाक्यानि कथाक्रमानुसारेण लिखन्तु-
i. माता तं बालक प्रतिदिनम् अपाठयत् ।
ii. विद्यालये सर्वे तं 'मूर्खः' इति कथयन्ति स्म।
iii. सः महान् वैज्ञानिकः अभवत् ।
iv. सः दुखी भूत्वा विद्यालय गन्तुम् न इच्छति स्म ।
v. बालक: आल: विद्यालये अपठत् ।
उत्तर-
i. बालक: आल: विद्यालये अपठत् ।
ii. विद्यालये सर्वे तं 'मूर्खः' इति कथयन्ति स्म।
iii. सः दुखी भूत्वा विद्यालय गन्तुम् न इच्छति स्म।
iv. माता तं बालक प्रतिदिनम् अपाठयत्।
v. सः महान् वैज्ञानिकः अभवत् ।
No comments:
Post a Comment
If you have any doubt let me know.